तद्धितप्रयोगे ह्रासहेतुः

Authors

  • डाॅ. अशोक कुमार झा Author

DOI:

https://doi.org/10.1366/1g8bx338

Abstract

 तद्धितान्तप्रयोगा दिनानुदिनं क्षीणाः सञ्जाताः। एतां दुर्दशां दृष्ट्वा व्याकुलाः प्रयोगमर्मज्ञा दुःखेन वदन्ति, ‘गतास्तद्धितान्ताः‘, मृताः प्रक्रियाजाः, हताः सन्धि-बन्धा लुङ्श्चप्रयोगाः। इदानीन्तनानां जनानां प्रवृत्तिः कृदन्ते सुबन्ते कदाचित्तिङ्ङन्ते। महिम्नः स्तोत्रे तद्धिनान्तशब्दा बाहुल्येन प्रयुक्ताः सन्ति। इदानीन्तनानां विदुषां रचना कृदन्तबहुला, तत्र यदि पूजयति इत्यादिस्थाने ‘पूजां करोति‘ इति प्रयुज्यते तदा कृदन्तसमादरः स्पष्ट एव। अध्ययनाभावाद् भावाभिव्यक्तिकाले ये तद्धितान्तप्रयोगा अनिवार्यास्ते तादृशस्य जनस्य भाषणलेखनादिकाले अपशब्दा भवन्ति। अतएव षष्ठमः, अष्टादशम इति प्रयोगस्तत्र तत्र श्रूयते। वैयाकरणः, शाब्दिकः नैयायिकः, मीमांसकः, शिक्षकः इत्यादिशब्दाः प्रयत्याऽपि भाषातो बहिष्कर्तुं न शक्याः। कौन्तेय, पार्थ, वासुदेव, पाणिनि, राघव, वरिष्ठ, आञ्जनेयादिशब्दास्तद्धितज्ञानां मनसि भारतीय-संस्कृतेः इतिहासायन्ते। एषां बहिष्कारेण संस्कृतौ तदीयजीवातुभूते वैदिकवाङ्मये संस्कृतवाङ्मये च कुठाराघातोऽसह्य एव।

Downloads

Published

2006-2025

Issue

Section

Articles

How to Cite

तद्धितप्रयोगे ह्रासहेतुः . (2025). Leadership, Education, Personality: An Interdisciplinary Journal, ISSN: 2524-6178, 9(12), 61-64. https://doi.org/10.1366/1g8bx338